चरितं रघुनाथस्य शतकोटिप्रविस्तरम्।
एकैकमक्षरं पुंसां महापातकनाशनम्॥
ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम्।
जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम्॥
शिरो मे राघवः पातु भालं दशरथात्मजः।
कौशल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुती॥
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः।
जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः॥
स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः।
करौ सीतापतिः पातु हृदयं जामदग्न्यजित्॥
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः।
सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः॥
ऊरू रघूत्तमः पातु रक्षःकुलविनाशकृत्।
जानुनी सेतुकृत्पातु जङ्घे दशमुखान्तकः॥
पादौ बिभीषणश्रीदः पातु रामोऽखिलं वपुः।
एतां रामबलोपेतां रक्षां यः सुकृती पठेत्॥
स चिरायुः सुखी पुत्री विजयी विनयी भवेत्॥
रामो राजमणिः सदा विजयते रामं रमेशं भजे
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः।
रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं
रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर॥