द्वादश ज्योतिर्लिंग स्तोत्रम

पारंपरिक
महादेव स्तोत्र शिव भजन shiv
॥ पावन पाठ ॥

सौराष्ट्रदेशे विशदेऽतिरम्ये

ज्योतिर्मयं चन्द्रकलावतंसम् ।

भक्तिप्रदानाय कृपावतीर्णं

तं सोमनाथं शरणं प्रपद्ये ॥ 1॥

श्रीशैलशृङ्गे विबुधातिसङ्गे

तुलाद्रितुङ्गेऽपि मुदा वसन्तम् ।

तमर्जुनं मल्लिकपूर्वमेकं

नमामि संसारसमुद्रसेतुम् ॥ 2॥

अवन्तिकायां विहितावतारं

मुक्तिप्रदानाय च सज्जनानाम् ।

अकालमृत्योः परिरक्षणार्थं

वन्दे महाकालमहासुरेशम् ॥3।।

कावेरिकानर्मदयोः पवित्रे

समागमे सज्जनतारणाय।

सदैव मान्धातृपुरे वसन्तं

ओङ्कारमीशं शिवमेकमीडे ॥ ४

पूर्वोत्तरे प्रज्वलिकानिधाने

सदा वसन्तं गिरिजासमेतम् ।

सुरासुराराधितपादपद्मं

श्रीवैद्यनाथं तमहं नमामि ॥ ५ ॥

याम्ये सदङ्गे नगरेऽतिरम्ये

विभूषिताङ्गं विविधैश्च भोगैः ।

सद्भक्तिमुक्तिप्रदमीशमेकं

श्रीनागनाथं शरणं प्रपद्ये ॥ ६ ॥

महाद्रिपार्श्वे च तटे रमन्तं

सम्पूज्यमानं सततं मुनीन्द्रैः ।

सुरासुरैर्यक्षमहोरगाद्यैः

केदारमीशं शिवमेकमीडे ॥ ७ ॥

सह्याद्रिशीर्षे विमले वसन्तं

गोदावरीतीरपवित्रदेशे ।

यद्दर्शनात्पातकमाशु नाशं

प्रयाति तं त्र्यम्बकमीशमीडे ॥ ८।।

सुताम्रपर्णीजलराशियोगे

निबध्य सेतुं विशिखैरसंख्यैः ।

श्रीरामचन्द्रेण समर्पितं तं

रामेश्वराख्यं नियतं नमामि ॥ ९ ॥

यं डाकिनीशाकिनिकासमाजे

निषेव्यमाणं पिशिताशनैश्च ।

सदैव भीमादिपदप्रसिद्धं

तं शङ्करं भक्तहितं नमामि ॥ १० ।।

सानन्दमानन्दवने वसन्तं

आनन्दकन्दं हतपापवृन्दम् । वाराणसीनाथमनाथनाथं

श्रीविश्वनाथं शरणं प्रपद्ये ॥ ११ ॥

इलापुरे रम्यविशालकेऽस्मिन्

समुल्लसन्तं च जगद्वरेण्यम् ।

वन्दे महोदारतरस्वभावं

घृष्णेश्वराख्यं शरणं प्रपद्ये ॥ १२ ॥

ज्योतिर्मयद्वादशलिङ्ग‌कानां

शिवात्मनां प्रोक्तमिदं क्रमेण ।

स्तोत्रं पठित्वा मनुजोऽतिभक्त्या

फलं तदालोक्य निजं भजेच्च ॥ १३ ॥

इति श्रीद्वादशज्योतिर्लिङ्गस्तोत्रं सम्पूर्णम् ।

इस पावन रचना का पाठ कब और कैसे करना चाहिए? ▾
प्रातःकाल स्नान करके अथवा संध्याकाल में शांत चित्त होकर स्वच्छ आसन पर बैठकर पाठ करना परम फलदायी माना जाता है।
नित्य पाठ करने से क्या आध्यात्मिक लाभ होता है? ▾
नित्य भक्तिभाव से स्मरण व पाठ करने से मन में शांति, एकाग्रता और सकारात्मक ऊर्जा का संचार होता है।